५.१६.२२

अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः ।
रूपयौवनसंपन्ना रावणस्य वरस्त्रियः ॥

अन्वयः

ततः then, कपिकुञ्जरः leader of the monkeys, अवेक्षमाणः while looking carefully, रावणस्य Ravana's, रूपयौवनसम्पन्नाः endowed with youth and beauty, वरस्त्रियः chief wives, ददर्श saw.

Summary

The leader of the monkeys started gazing at the chief wives of Ravana endowed with youth and beauty৷৷

पदच्छेदः

अवेक्षमाणश्चअवेक्षमाण (√अव-ईक्ष् + शानच्, १.१)–च (अव्ययः)
ततोततस् (अव्ययः)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
कपिकुञ्जरःकपि–कुञ्जर (१.१)
रूपयौवनसम्पन्नारूप–यौवन–सम्पन्न (√सम्-पद् + क्त, १.३)
रावणस्यरावण (६.१)
वरस्त्रियःवर–स्त्री (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वेक्ष माश्च तो
र्शपि कुञ्ज रः
रू यौ सं न्ना
रास्यस्त्रि यः