५.१६.२६

रावणोऽयं महाबाहुरिति संचिन्त्य वानरः ।
अवप्लुतो महातेजा हनूमान्मारुतात्मजः ॥

अन्वयः

मारुतात्मजः son of the Windgod, वानरः vanara, महातेजाः brilliant one, हनुमान् Hanuman, अयम् this, महाबाहुः strongarmed, रावणः Ravana, इति this, सञ्चिन्त्य having thought, अवप्लुतः got down.

Summary

The brilliant vanara (Hanuman), son of the Windgod recognising the strongarmed Ravana got down a little, saying 'This is truly the strongarmed Ravana.'

पदच्छेदः

रावणोरावण (१.१)
ऽयंइदम् (१.१)
महाबाहुर्महत्–बाहु (१.१)
इतिइति (अव्ययः)
संचिन्त्यसंचिन्त्य (√सम्-चिन्तय् + ल्यप्)
वानरःवानर (१.१)
अवप्लुतोअवप्लुत (√अव-प्लु + क्त, १.१)
महातेजामहत्–तेजस् (१.१)
हनूमान्मारुतात्मजःहनुमन्त् (१.१)–मारुतात्मज (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रा णो ऽयं हा बाहु
रिति सं चिन्त्य वा रः
प्लु तो हा ते जा
नू मा न्मारु तात्म जः