५.२.११

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि ।
पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् ॥

पदच्छेदः

पुष्पभारनिबद्धांश्चपुष्प–भार–निबद्ध (√नि-बन्ध् + क्त, २.३)–च (अव्ययः)
तथातथा (अव्ययः)
मुकुलितान्मुकुलित (२.३)
अपिअपि (अव्ययः)
पादपान्पादप (२.३)
विहगाकीर्णान्विहग–आकीर्ण (√आ-कृ + क्त, २.३)
पवनाधूतमस्तकान्पवन–आधूत (√आ-धू + क्त)–मस्तक (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुष्प भानि द्धांश्च
थामुकुलि तापि
पा पान्वि गा की र्णा
न्प ना धूस्त कान्