५.२.१२

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः ।
आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् ॥

पदच्छेदः

हंसकारण्डवाकीर्णाहंस–कारण्डव–आकीर्ण (√आ-कृ + क्त, २.३)
वापीःवापी (२.३)
पद्मोत्पलायुताःपद्म–उत्पल–आयुत (२.३)
आक्रीडान्आक्रीड (२.३)
विविधान्विविध (२.३)
रम्यान्रम्य (२.३)
विविधांश्चविविध (२.३)–च (अव्ययः)
जलाशयान्जलाशय (२.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हं काण्ड वा की र्णा
वा पीः द्मोत्प लायु ताः
क्री डान्विवि धा न्र म्या
न्विवि धांश्च ला यान्