५.२.१३

संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः ।
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः ॥

पदच्छेदः

संततान्संतत (२.३)
विविधैर्विविध (३.३)
वृक्षैःवृक्ष (३.३)
सर्वर्तुफलपुष्पितैःसर्व–ऋतु–फल–पुष्पित (३.३)
उद्यानानिउद्यान (२.३)
(अव्ययः)
रम्याणिरम्य (२.३)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
कपिकुञ्जरःकपि–कुञ्जर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं तान्विवि धै र्वृ क्षैः
र्वर्तु पुष्पि तैः
द्या नानि म्याणि
र्शपि कुञ्ज रः