५.२.१४

समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् ।
परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम् ॥

पदच्छेदः

समासाद्यसमासाद्य (√समा-सादय् + ल्यप्)
(अव्ययः)
लक्ष्मीवांल्लक्ष्मीवत् (१.१)
लङ्कांलङ्का (२.१)
रावणपालिताम्रावण–पालित (√पालय् + क्त, २.१)
परिखाभिःपरिखा (३.३)
सपद्माभिः (अव्ययः)–पद्म (३.३)
सोत्पलाभिर् (अव्ययः)–उत्पल (३.३)
अलंकृताम्अलंकृत (√अलम्-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा साद्य क्ष्मी वा
ल्ल ङ्कां रा पालि ताम्
रि खा भिः द्मा भिः
सोत्प लाभि लंकृ ताम्