५.२.१५

सीतापहरणार्थेन रावणेन सुरक्षिताम् ।
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः ॥

पदच्छेदः

सीतापहरणार्थेनसीता–अपहरण–अर्थ (३.१)
रावणेनरावण (३.१)
सुरक्षिताम्सु (अव्ययः)–रक्षित (√रक्ष् + क्त, २.१)
समन्ताद्समन्तात् (अव्ययः)
विचरद्भिश्चविचरत् (√वि-चर् + शतृ, ३.३)–च (अव्ययः)
राक्षसैर्राक्षस (३.३)
उग्रधन्विभिःउग्र–धन्विन् (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सी ता णा र्थे
रा णेसुक्षि ताम्
न्ताद्वि द्भिश्च
राक्ष सै रुग्रन्वि भिः