५.२.१६

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् ।
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् ॥

पदच्छेदः

काञ्चनेनावृतांकाञ्चन (३.१)–आवृत (√आ-वृ + क्त, २.१)
रम्यांरम्य (२.१)
प्राकारेणप्राकार (३.१)
महापुरीम्महत्–पुरी (२.१)
अट्टालकशताकीर्णांअट्टालक–शत–आकीर्ण (√आ-कृ + क्त, २.१)
पताकाध्वजमालिनीम्पताका–ध्वज–मालिन् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

काञ्च ने नावृ तां म्यां
प्रा का रे हापु रीम्
ट्टा ता की र्णां
ता काध्व मालि नीम्