५.२.१७

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः ।
ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव ॥

पदच्छेदः

तोरणैःतोरण (३.३)
काञ्चनैर्काञ्चन (३.३)
दिव्यैर्दिव्य (३.३)
लतापङ्क्तिविचित्रितैःलता–पङ्क्ति–विचित्रित (३.३)
ददर्शददर्श (√दृश् लिट् प्र.पु. एक.)
हनुमांल्हनुमन्त् (१.१)
लङ्कांलङ्का (२.१)
दिविदिव् (७.१)
देवपुरीम्देव–पुरी (२.१)
इवइव (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो णैः काञ्च नै र्दि व्यै
र्ल ताङ्क्तिवि चित्रि तैः
र्शनु मा ल्ल ङ्कां
दिवि देपु रीमि