५.२.२४

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः ।
रावणं च रिपुं घोरं चिन्तयामास वानरः ॥

पदच्छेदः

तस्याश्चतद् (६.१)–च (अव्ययः)
महतींमहत् (२.१)
गुप्तिंगुप्ति (२.१)
सागरंसागर (२.१)
(अव्ययः)
निरीक्ष्यनिरीक्ष्य (√निः-ईक्ष् + ल्यप्)
सःतद् (१.१)
रावणंरावण (२.१)
(अव्ययः)
रिपुंरिपु (२.१)
घोरंघोर (२.१)
चिन्तयामासचिन्तयामास (√चिन्तय् प्र.पु. एक.)
वानरःवानर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्याश्च तीं गु प्तिं
सा रंनि रीक्ष्य सः
रा णंरि पुं घो रं
चिन्त या मा वा रः