५.२.२९

यावज्जानामि वैदेहीं यदि जीवति वा न वा ।
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् ॥

अन्वयः

वैदेहीम् Vaidehi, यदि जीवति वा if she is alive or, न वा not alive, यावत् जानामि until I know, ताम् her, जनकात्मजाम् Janaka's daughter, दृष्ट्वा after seeing, तत्रैव there on the spot, चिन्तयिष्यामि I shall think over.

M N Dutt

When I have ascertained whether Vaidehī is alive or not, I shall, after interviewing Janaka's daughter, think about this.

Summary

'Whether Janaka's daughter, Vaidehi is alive or not is not known. After seeing her I shall think over'.

पदच्छेदः

यावज्जानामियावत् (अव्ययः)–जानामि (√ज्ञा लट् उ.पु. )
वैदेहींवैदेही (२.१)
यदियदि (अव्ययः)
जीवतिजीवति (√जीव् लट् प्र.पु. एक.)
वावा (अव्ययः)
(अव्ययः)
वावा (अव्ययः)
तत्रैवतत्र (अव्ययः)–एव (अव्ययः)
चिन्तयिष्यामिचिन्तयिष्यामि (√चिन्तय् लृट् उ.पु. )
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
तांतद् (२.१)
जनकात्मजाम्जनकात्मजा (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

या ज्जा नामि वै दे हीं
दि जीति वा वा
त्रै चिन्त यि ष्यामि
दृ ष्ट्वा तां कात्म जाम्