५.२.३३

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया ।
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् ॥

अन्वयः

मे for me, महत् great, कृत्यम् task, साधयितुम् to accomplish, मया by me, लक्ष्यालक्ष्येण in a non conspicious, रूपेण form, रात्रौ during night, लङ्कापुरी city of Lanka, प्रवेष्टुम् to enter, प्राप्तकालम् is the appropriate time.

M N Dutt

For attaining this mighty object, it behove me to enter Lankā at night in a shape invisible yet well suited to the end in view.

Summary

'To accomplish this great task I will have to assume an inconspicious form and enter the city of Lanka in the night as that is the appropriate time.

पदच्छेदः

लक्ष्यालक्ष्येणलक्ष्यालक्ष्य (३.१)
रूपेणरूप (३.१)
रात्रौरात्रि (७.१)
लङ्कालङ्का (१.१)
पुरीपुरी (१.१)
मयामद् (३.१)
प्रवेष्टुंप्रवेष्टुम् (√प्र-विश् + तुमुन्)
प्राप्तकालंप्राप्त (√प्र-आप् + क्त)–काल (२.१)
मेमद् (६.१)
कृत्यंकृत्य (२.१)
साधयितुंसाधयितुम् (√साधय् + तुमुन्)
महत्महत् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष्या क्ष्ये रू पे
रा त्रौ ङ्कापु री या
प्र वे ष्टुं प्राप्त का लं मे
कृ त्यं सायि तुं हत्