५.२.५०

वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः ।
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् ॥

अन्वयः

अत्र here, रक्षसाम् of demons, भवनानि mansions, वैडूर्यमणिचित्रैः inlaid with precious gems, मुक्ताजालविभूषितैः fretwork ornamented with pearls, तलैः with floors, शुशुभिरे looked splendid.

Summary

Inlaid with precious gems and fretwork, and ornamented with pearls, the mansions of demons looked splendid.

पदच्छेदः

वैदूर्यमणिचित्रैश्चवैडूर्य–मणि–चित्र (३.३)–च (अव्ययः)
मुक्ताजालविभूषितैःमुक्ता–जाल–विभूषित (√वि-भूषय् + क्त, ३.३)
तलैःतल (३.३)
शुशुभिरेशुशुभिरे (√शुभ् लिट् प्र.पु. बहु.)
तानितद् (१.३)
भवनान्यत्रभवन (१.३)–अत्र (अव्ययः)
रक्षसाम्रक्षस् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वै दूर्यणि चि त्रैश्च
मु क्ता जावि भूषि तैः
लैःशुशुभि रे तानि
ना न्यत्रक्ष साम्