५.२.५१

काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् ।
लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम् ॥

अन्वयः

रक्षसाम् of demons, काञ्चनानि golden ones, चित्राणि colourful ones, तोरणानि archways, समलङ्कृताम् decorated all over, लङ्काम् Lanka, सर्वतः everywhere, उद्योतयामासुः illumined.

M N Dutt

And graceful golden gateways belonging to the Rākṣasas everywhere lent splendour to Lankā adorned all over.

Summary

The golden archways of the demon were colourful. They illuminated the well decorated Lanka from all sides.

पदच्छेदः

काञ्चनानिकाञ्चन (१.३)
विचित्राणिविचित्र (१.३)
तोरणानितोरण (१.३)
(अव्ययः)
रक्षसाम्रक्षस् (६.३)
लङ्काम्लङ्का (२.१)
उद्द्योतयामासुःउद्द्योतयामासुः (√उत्-द्योतय् प्र.पु. बहु.)
सर्वतःसर्वतस् (अव्ययः)
समलंकृताम्समलंकृत (√समलं-कृ + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

काञ्च नानिवि चि त्राणि
तो णानिक्ष साम्
ङ्का मु द्द्यो या मा सुः
र्व तः लंकृ ताम्