५.२.५४

चन्द्रोऽपि साचिव्यमिवास्य कुर्वं;स्तारागणैर्मध्यगतो विराजन् ।
ज्योत्स्नावितानेन वितत्य लोक;मुत्तिष्ठते नैकसहस्ररश्मिः ॥

अन्वयः

नैकसहस्ररश्मि: having thousands of rays, चन्द्रोऽपि even the Moon, तारागणैः with multitude of stars, मध्यगतः came in the centre, विराजन् illumining, लोकम् the world, ज्योत्स्नावितानेन with a canopy of moonlight, वितत्य having expanded, अस्य his, साचिव्यम् ministerial assistance, कुर्वन्निव as if to render, उत्तिष्ठते rises.

Summary

Even the Moon rose with thousands of rays in the centre of multitudes of stars overspreading and illumining the world with a canopy of bright beams, as if to render ministerial help to Hanuman.

पदच्छेदः

चन्द्रोचन्द्र (१.१)
ऽपिअपि (अव्ययः)
साचिव्यम्साचिव्य (२.१)
इवास्यइव (अव्ययः)–इदम् (६.१)
कुर्वंस्कुर्वत् (√कृ + शतृ, १.१)
तारागणैर्तारा–गण (३.३)
मध्यगतोमध्य–गत (√गम् + क्त, १.१)
विराजन्विराजत् (√वि-राज् + शतृ, १.१)
ज्योत्स्नावितानेनज्योत्स्ना–वितान (३.१)
वितत्यवितत्य (√वि-तन् + ल्यप्)
लोकम्लोक (२.१)
उत्तिष्ठतेउत्तिष्ठते (√उत्-स्था लट् प्र.पु. एक.)
नैकसहस्ररश्मिः (अव्ययः)–एक–सहस्र–रश्मि (१.१)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
न्द्रोऽपि सा चिव्यमि वास्य कु र्वं
स्ता रा णै र्मध्य तोवि रा जन्
ज्यो त्स्नावि ता नेवित्य लो
मु त्तिष्ठ ते नैस्र श्मिः