५.२०.३८

मया क्रीड महाराजसीतया किं तवानया ।
अकामां कामयानस्य शरीरमुपतप्यते ।
इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना ॥

अन्वयः

अकामाम् a woman devoid of desire, कामयानस्य of a man who desires, शरीरम् body, उपतप्यते only is tormented, इच्छन्तीम् a lady who desires, कामयानस्य one who is desiring, शोभना is enjoyable, प्रीतिः pleasure भवति becomes

M N Dutt

Again he who desire for an unwilling dame burn his own person—and he who desire for a willing damsel, attain excess of delight.

पदच्छेदः

मयामद् (३.१)
क्रीडक्रीड (√क्रीड् लोट् म.पु. )
महाराजसीतयामहत्–राज (८.१)–सीता (३.१)
किं (१.१)
तवानयात्वद् (६.१)–इदम् (३.१)
अकामांअकाम (२.१)
कामयानस्यकामयान (√कामय् + शानच्, ६.१)
शरीरम्शरीर (१.१)
उपतप्यतेउपतप्यते (√उप-तप् प्र.पु. एक.)
इच्छन्तींइच्छत् (√इष् + शतृ, २.१)
कामयानस्यकामयान (√कामय् + शानच्, ६.१)
प्रीतिर्प्रीति (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
शोभनाशोभन (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
या क्री हा रा सी या किं
वा या का मां का यास्य
रीमुप्य ते च्छ न्तीं का
या स्य प्री तिर्भति शो ना