५.२१.१०

येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः ।
तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि ॥

अन्वयः

येन by him, त्रयस्त्रिंशत् thirtythree, देवाः gods, देवराजश्च Indra, king of the gods, निर्जिताः are conquered, तस्य his, राक्षसेन्द्रस्य of the lord of ogres, त्वम् you, भार्या wife, भवितुम् to become, अर्हसि you ought to be.

M N Dutt

Thereupon another Rākşasī named Harijatā, having the eyes of a cat, and whirling them with ire, said It become you to be the wife of that lord of Rākşasas who smote the thirty three celestials and their lord in battle.

Summary

'You ought to be the wife of the lord of ogres who has vanquished thirty three crores of gods including Indra, their king.'

पदच्छेदः

येनयद् (३.१)
देवास्त्रयस्त्रिंशद्देव (१.३)–त्रयस्त्रिंशत् (१.१)
देवराजश्चदेवराज (१.१)–च (अव्ययः)
निर्जितःनिर्जित (√निः-जि + क्त, १.१)
तस्यतद् (६.१)
त्वंत्वद् (१.१)
राक्षसेन्द्रस्यराक्षस–इन्द्र (६.१)
भार्याभार्या (१.१)
भवितुम्भवितुम् (√भू + तुमुन्)
अर्हसिअर्हसि (√अर्ह् लट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ये दे वास्त्र स्त्रिं
द्दे राश्च निर्जि तः
स्य त्वं राक्ष से न्द्रस्य
भा र्यावितुर्हसि