५.२२.१

ततः सीतामुपागम्य राक्षस्यो विकृताननाः ।
परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम् ॥

अन्वयः

ततः then, राक्षस्यः demonesses, सीताम् to Sita, उपागम्य went near, क्रोधमूर्छिताः senses lost in anger, परम् very, परुषया harsh, वाचा words, वैदेहीम् Vaidehi, इदम् thus, अब्रुवन् spoke.

M N Dutt

Thereupon all those Rākşasīs, having terrible faces again and again pursued Sitä with reproaches rough and rude.

Summary

The demonesses, overcome with anger, approached Sita and harshly said:

पदच्छेदः

ततःततस् (अव्ययः)
सीताम्सीता (२.१)
उपागम्यउपागम्य (√उपा-गम् + ल्यप्)
राक्षस्योराक्षसी (१.३)
विकृताननाःविकृत (√वि-कृ + क्त)–आनन (१.३)
परुषंपरुष (२.१)
परुषापरुष (१.३)
नार्यनारी (१.३)
ऊचुस्ताऊचुः (√वच् लिट् प्र.पु. बहु.)–तद् (१.३)
वाक्यम्वाक्य (२.१)
अप्रियम्अप्रिय (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः सी तामु पाम्य
रा क्ष स्योविकृ ता नाः
रु षंरु षा नार्य
चु स्ता वाक्यप्रि यम्