५.२२.२४

बहून्यप्रतिरूपाणि वचनानि सुदुर्मते ।
अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि ।
न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम् ॥

अन्वयः

सुदुर्मते O wicked, मैथिलि Mythili, अप्रियरूपाणि of unpleasant, बहूनि many, तव your वचनानि words, अनुक्रोशात् out of kindness, मृदुत्वाच्च of and due to mildness, सोढानि are put up with.

M N Dutt

O foolish daughter of the king of Mithilā, we have put up with all your foolish words only out of compassion, and because you are a feeble being.

Summary

'O wicked Mythili we have tolerated many unpleasant words uttered by you due to our kindness and mildness৷৷

पदच्छेदः

बहून्यप्रतिरूपाणिबहु (१.३)–अप्रतिरूप (१.३)
वचनानिवचन (१.३)
सुदुर्मतेसु (अव्ययः)–दुर्मति (८.१)
अनुक्रोशान्मृदुत्वाच्चअनुक्रोश (५.१)–मृदु–त्व (५.१)–च (अव्ययः)
सोढानिसोढ (√सह् + क्त, १.३)
तवत्वद् (६.१)
मैथिलिमैथिली (८.१)
(अव्ययः)
(अव्ययः)
नःमद् (६.३)
कुरुषेकुरुषे (√कृ लट् म.पु. )
वाक्यंवाक्य (२.१)
हितंहित (२.१)
कालपुरस्कृतम्काल–पुरस्कृत (√पुरस्-कृ + क्त, २.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
हू न्यप्रति रू पाणि नानि
सु दुर्म ते नु क्रो शान्मृ दु त्वाच्च
सो ढानि मैथिलि नःकु
रु षे वा क्यंहि तं कापुस्कृ तम्