५.२२.२६

रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता ।
न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः ॥

अन्वयः

रावणस्य Ravana's, गृहे in home, रुद्धाम् arrested, अस्माभिः by us, सुरक्षिताम् very well guarded, त्वाम् you, परित्रातुम् to rescue, साक्षात् even if, पुरन्दरः अपि even the destroyer of citadels, (Indra) also, न शक्तः not able.

Summary

'You are in Ravana's house, wellguarded by us. It is not possible even for Indra, destroyer of citadels, to come to your rescue (let alone Rama).

पदच्छेदः

रावणस्यरावण (६.१)
गृहेगृह (७.१)
रुद्धारुद्ध (√रुध् + क्त, १.१)
अस्माभिस्तुमद् (३.३)–तु (अव्ययः)
सुरक्षितासु (अव्ययः)–रक्षित (√रक्ष् + क्त, १.१)
(अव्ययः)
त्वांत्वद् (२.१)
शक्तःशक्त (√शक् + क्त, १.१)
परित्रातुम्परित्रातुम् (√परि-त्रा + तुमुन्)
अपिअपि (अव्ययः)
साक्षात्साक्षात् (अव्ययः)
पुरंदरःपुरंदर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रास्यगृ हेरु धा
स्मा भिस्तुसुक्षि ता
त्वां क्तः रि त्रातु
पि सा क्षात्पु रं रः