५.२२.२९

जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम् ।
यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि ॥

अन्वयः

भीरु O timid lady, स्त्रीणाम् for women, यौवनम् youth, यथा since, अध्रुवम् not stable, जानासि हि you know, ते you, यावत् until, न व्यतिक्रामेत् before it is over, तावत् सुखम् till then all pleasures, अवाप्नुहि enjoy.

Summary

'O timid Sita know that youth of women is fleeting and transient. Before it is over, enjoy all kinds of pleasures.

पदच्छेदः

जानासिजानासि (√ज्ञा लट् म.पु. )
हिहि (अव्ययः)
यथायथा (अव्ययः)
भीरुभीरु (८.१)
स्त्रीणांस्त्री (६.३)
यौवनम्यौवन (१.१)
अध्रुवम्अध्रुव (१.१)
यावन्नयावत् (अव्ययः)–न (अव्ययः)
तेत्वद् (६.१)
व्यतिक्रामेत्व्यतिक्रामेत् (√व्यति-क्रम् विधिलिङ् प्र.पु. एक.)
तावत्तावत् (अव्ययः)
सुखम्सुख (२.१)
अवाप्नुहिअवाप्नुहि (√अव-आप् लोट् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

जा नासिहि था भीरु
स्त्री णां यौध्रु वम्
यान्न तेव्य ति क्रा मे
त्तात्सु वाप्नुहि