५.२२.९

अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे ।
सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः ॥

अन्वयः

कपिः monkey, स: he, हनुमान् Hanuman, निर्वाक्यः speechless, शिंशुपाद्रुमे Simsupa tree, अवलीनः kept concealed, सीताम् Sita, सन्तर्जयन्तीः listened threatening, ताः those, राक्षसीः ogresses, अशृणोत् listened.

M N Dutt

Hanumān remained all along speechless and hidden on the ſinsapā tree. And that monkey heard all those demons remonstrate with Sītā in this way.

Summary

Hanuman who kept himself concealed on the simsupa tree speechlessly listened to the ogresses threatening Sita.

पदच्छेदः

अवलीनःअवलीन (√अव-ली + क्त, १.१)
तद् (१.१)
निर्वाक्योनिर्वाक्य (१.१)
हनुमाञ्हनुमन्त् (१.१)
शिंशपाद्रुमेशिंशपा–द्रुम (७.१)
सीतांसीता (२.१)
संतर्जयन्तीस्तासंतर्जयत् (√सम्-तर्जय् + शतृ, २.३)–तद् (२.३)
राक्षसीर्राक्षसी (२.३)
अशृणोत्अशृणोत् (√श्रु लङ् प्र.पु. एक.)
कपिःकपि (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ली नः नि र्वा क्यो
नु मा ञ्शिं पाद्रु मे
सी तां संर्ज न्ती स्ता
राक्ष सीशृ णोत्क पिः