५.२४.२३

ततो निहतनथानां राक्षसीनां गृहे गृहे ।
यथाहमेवं रुदती तथा भूयो न संशयः ।
अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः ॥

अन्वयः

ततः then, अहम् I, यथा like the way, एवम् in that way, रुदती while crying, तथा similarly, गृहे गृहे in every home, निहतनाथानाम् of those women who lost husbands, राक्षसीनाम् of the ogresses, भूयः again, संशयः no doubt.

M N Dutt

And from each ruined home would have risen the Rākşasa widow's groans and cries like to those of mine.

Summary

"Like me weeping, the cry of ogresses with lost husbands will be heard in every house in Lanka. There is no doubt.

पदच्छेदः

ततोततस् (अव्ययः)
निहतनाथानांनिहत (√नि-हन् + क्त)–नाथ (६.३)
राक्षसीनांराक्षसी (६.३)
गृहेगृह (७.१)
गृहेगृह (७.१)
यथाहम्यथा (अव्ययः)–मद् (१.१)
एवंएवम् (अव्ययः)
रुदतीरुदत् (√रुद् + शतृ, १.१)
तथातथा (अव्ययः)
भूयोभूयस् (अव्ययः)
(अव्ययः)
संशयःसंशय (१.१)
अन्विष्यअन्विष्य (√अनु-इष् + ल्यप्)
रक्षसांरक्षस् (६.३)
लङ्कांलङ्का (२.१)
कुर्याद्कुर्यात् (√कृ विधिलिङ् प्र.पु. एक.)
रामःराम (१.१)
सलक्ष्मणः (अव्ययः)–लक्ष्मण (१.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
तोनि था नां राक्ष सी नां
गृ हेगृ हे था मे वंरु ती
था भू यो सं यः न्विष्य
क्ष सां ङ्कां कु र्या द्रा मःक्ष्म णः