५.२४.३४

नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः ।
ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति ॥

पदच्छेदः

नैते (अव्ययः)–एतद् (१.३)
धर्मंधर्म (२.१)
विजानन्तिविजानन्ति (√वि-ज्ञा लट् प्र.पु. बहु.)
राक्षसाःराक्षस (१.३)
पिशिताशनाःपिशित–अशन (१.३)
ध्रुवंध्रुवम् (अव्ययः)
मांमद् (२.१)
प्रातराशार्थेप्रातराश–अर्थ (७.१)
राक्षसःराक्षस (१.१)
कल्पयिष्यतिकल्पयिष्यति (√कल्पय् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नै ते र्मंवि जान्ति
राक्ष साःपिशि ता नाः
ध्रु वं मां प्रा रा शा र्थे
राक्ष सःल्प यिष्यति