५.२४.३६

यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह ।
क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना ॥

अन्वयः

अद्य now, मे to me, विषस्य of poison, प्रदाता donor, कश्चित् some one, इह here, भवेद्यदि can give, पतिना husband विना devoid, क्षिप्रम् soon, देवम् divine, वैवस्वतम् lord of death, पश्येयम् I will see.

M N Dutt

Debarred from my husband's presence, stricken with grief and not beholding Rāma, having dark-blue eyes, I shall soon meet with death.

पदच्छेदः

यदियदि (अव्ययः)
कश्चित्कश्चित् (१.१)
प्रदाताप्रदातृ (१.१)
मेमद् (६.१)
विषस्याद्यविष (६.१)–अद्य (अव्ययः)
भवेद्भवेत् (√भू विधिलिङ् प्र.पु. एक.)
इहइह (अव्ययः)
क्षिप्रंक्षिप्रम् (अव्ययः)
वैवस्वतंवैवस्वत (२.१)
देवंदेव (२.१)
पश्येयंपश्येयम् (√पश् विधिलिङ् उ.पु. )
पतिनापति (३.१)
विनाविना (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दि श्चित्प्र दा ता मे
वि स्याद्य वेदि
क्षि प्रं वैस्व तं दे वं
श्ये यंति नावि ना