५.२४.५

न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः ।
वसन्त्या राक्षसी मध्ये विना रामं महारथम् ॥

अन्वयः

महारथम् great charioteer, रामं विना without Rama, राक्षसीमध्ये in the midst of ogresses, वसन्त्याः while living, मे my, जीवितेन with life, अर्थः use, न not, अर्थैः with wealth, न no, भूषणैश्च with ornaments, न no need.

M N Dutt

Of what avail are wealth, ornament and life to me, who am living in the midst of the Răkşasas and separated from Ráma, of the mighty car?

Summary

"In the absence of the great charioteer Rama, of what use is my living in the midst of ogresses? I need no wealth, no ornaments.

पदच्छेदः

(अव्ययः)
हिहि (अव्ययः)
मेमद् (६.१)
जीवितेनार्थोजीवित (३.१)–अर्थ (१.१)
नैवार्थैर् (अव्ययः)–एव (अव्ययः)–अर्थ (३.३)
(अव्ययः)
(अव्ययः)
भूषणैःभूषण (३.३)
वसन्त्यावसत् (√वस् + शतृ, ६.१)
राक्षसीमध्येराक्षसी–मध्य (७.१)
विनाविना (अव्ययः)
रामंराम (२.१)
महारथम्महत्–रथ (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हि मे जीवि ते ना र्थो
नै वा र्थैर्न भू णैः
न्त्या राक्ष सी ध्ये
वि ना रा मं हा थम्