५.२४.८

भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम् ।
न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता ॥

अन्वयः

अहम् I, शरीरम् my body, विसृजामि I will leave, भिद्यताम् you cut me to pieces, भक्ष्यतां वापि or you eat me up, प्रियवर्जिता separated from my dear lord, अहम् I, चिरम् for long, दुःखम् sorrow, न च सहेयम् I cannot bear.

Summary

"I will give up my body. Break me into pieces or eat me up. I cannot bear the sorrow of separation from my dear Rama any longer.

पदच्छेदः

भिद्यतांभिद्यताम् (√भिद् लोट् प्र.पु. एक.)
भक्ष्यतांभक्ष्यताम् (√भक्ष् प्र.पु. एक.)
वापिवा (अव्ययः)–अपि (अव्ययः)
शरीरंशरीर (२.१)
विसृजाम्यहम्विसृजामि (√वि-सृज् लट् उ.पु. )–मद् (१.१)
(अव्ययः)
चाप्यहं (अव्ययः)–अपि (अव्ययः)–मद् (१.१)
चिरंचिर (२.१)
दुःखंदुःख (२.१)
सहेयंसहेयम् (√सह् विधिलिङ् उ.पु. )
प्रियवर्जिताप्रिय–वर्जित (√वर्जय् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

भिद्य तांक्ष्य तां वापि
री रंविसृ जाम्य हम्
चाप्य हंचि रं दुः खं
हे यंप्रिर्जि ता