५.२४.९

चरणेनापि सव्येन न स्पृशेयं निशाचरम् ।
रावणं किं पुनरहं कामयेयं विगर्हितम् ॥

अन्वयः

निशाचरम् nightranger, विगर्हितम् vile, रावणम् Ravana, अहम् I, सव्येन with the left, चरेणेन अपि even with feet, न स्पृशेयम् will not touch, किं what, पुनः again, काममेयं can I love him.

M N Dutt

What of fixing my fancy on that night-ranger Rāvaņa, my meaner foot even shall not touch him?

Summary

"I will not even touch that vile nightranger Ravana with my left foot. What to speak of loving him.

पदच्छेदः

चरणेनापिचरण (३.१)–अपि (अव्ययः)
सव्येनसव्य (३.१)
(अव्ययः)
स्पृशेयंस्पृशेयम् (√स्पृश् विधिलिङ् उ.पु. )
निशाचरम्निशाचर (२.१)
रावणंरावण (२.१)
किंकिम् (अव्ययः)
पुनर्पुनर् (अव्ययः)
अहंमद् (१.१)
कामयेयंकामयेयम् (√कामय् विधिलिङ् उ.पु. )
विगर्हितम्विगर्हित (√वि-गर्ह् + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

णे नापि व्ये
स्पृ शे यंनि शा रम्
रा णं किंपु हं
का ये यंविर्हि तम्