५.२५.२४

पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः ।
लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः ॥

अन्वयः

भस्मरूक्षायाम् in a dry place turned into ashes, लङ्कायाम् in this Lanka, सर्वाः all, राक्षसस्त्रियः demonesses, तैलम् oil, पीत्वा after drinking, प्रहसन्त्यः laughing away, महास्वनाः shouting in a loud voice, प्रनृत्ताः च danced.

M N Dutt

And in Lanka, covered with dust, Raksasa women laughing and making terrible sound, were engaged in quaffing oil.

पदच्छेदः

पीत्वापीत्वा (√पा + क्त्वा)
तैलंतैल (२.१)
प्रनृत्ताश्चप्रनृत्त (√प्र-नृत् + क्त, १.३)–च (अव्ययः)
प्रहसन्त्योप्रहसत् (√प्र-हस् + शतृ, १.३)
महास्वनाःमहत्–स्वन (१.३)
लङ्कायांलङ्का (७.१)
भस्मरूक्षायांभस्मन्–रूक्ष (७.१)
सर्वासर्व (१.३)
राक्षसयोषितःराक्षस–योषित् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पीत्व तै लंप्र नृ त्ताश्च
प्र न्त्यो हास्व नाः
ङ्का यांस्म रू क्षा यां
र्वा राक्ष योषि तः