५.२५.३

हन्तेदानीं तवानार्ये सीते पापविनिश्चये ।
राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम् ॥

अन्वयः

अनार्ये vile one, पापविनिश्चये O woman determined in evil ways, सीते O Sita, अद्य today, इदानीम् these, तव your, एतत मांसम् your flesh, राक्षस्यः rakshasa women, यथासुखम् heart's content, भक्षयिष्यन्ति will eat.

M N Dutt

O vile Sītă, O you bent on committing sin, we Rākşasīs shall today devour your flesh to the best of our satisfaction.

Summary

"O vile one you are determined in your evil ways. Today these shedemons will eat away your flesh to their heart's content ".

पदच्छेदः

हन्तेदानींहन्त (अव्ययः)–इदानीम् (अव्ययः)
तवानार्येत्वद् (६.१)–अनार्य (८.१)
सीतेसीता (८.१)
पापविनिश्चयेपाप–विनिश्चय (८.१)
राक्षस्योराक्षसी (१.३)
भक्षयिष्यन्तिभक्षयिष्यन्ति (√भक्षय् लृट् प्र.पु. बहु.)
मांसम्मांस (२.१)
एतद्एतद् (२.१)
यथासुखम्यथासुखम् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्ते दा नीं वा ना र्ये
सी ते पावि निश्च ये
रा क्ष स्योक्ष यि ष्यन्ति
मां मेद्य थासु खम्