५.२५.३३

छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम् ।
अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम् ॥

अन्वयः

छायावैगुण्यमात्रं तु only a change in her complexion, वैहायसम् is changed, उपस्थिताम् which she has, अदुःखार्हाम् not deserve to suffer, इमाम् this, देवीम् this queen, दुःखम् grief, उपस्थितम् has befallen, शङ्के I think.

M N Dutt

And I saw in my dreams) this worshipful damsel, unworthy of any misfortune, stationed in the welkin.

पदच्छेदः

छायावैगुण्यमात्रंछाया–वैगुण्य–मात्र (२.१)
तुतु (अव्ययः)
शङ्केशङ्के (√शङ्क् लट् उ.पु. )
दुःखम्दुःख (२.१)
उपस्थितम्उपस्थित (√उप-स्था + क्त, २.१)
अदुःखार्हाम्अदुःख–अर्ह (२.१)
इमांइदम् (२.१)
देवींदेवी (२.१)
वैहायसमुपस्थिताम्वैहायस (२.१)–उपस्थित (√उप-स्था + क्त, २.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

छा या वै गुण्य मा त्रंतु
ङ्के दुःमुस्थि तम्
दुः खा र्हामि मां दे वीं
वै हामुस्थि ताम्