५.२६.१६

सा जीवितं क्षिप्रमहं त्यजेयं; विषेण शस्त्रेण शितेन वापि ।
विषस्य दाता न तु मेऽस्ति कश्चि;च्छस्त्रस्य वा वेश्मनि राक्षसस्य ॥

अन्वयः

सा अहम् that I, क्षिप्रम् at once, जीवितम् life, विषेण by poisoning, शितेन by a sharp one, शस्त्रेण by a weapon, वापि or else, त्यजेयम् I give up, राक्षसस्य demon's, वेश्मनि at his residence, मे to me, विषस्य of poison, शस्त्रस्य वा or of weapon, दाता donor, कश्चित् any one, नास्ति is not found.

M N Dutt

I desire to do away speedily with my being by means of poison or a sharp weapon. But there is no one in this city of the Rākşasas, who bring me this poison or weapon.

Summary

"I will end my life at once by taking poison or else by a sharp weapon. Alas There is none to give get me poison or a weapon at this demon's residence".

पदच्छेदः

सातद् (१.१)
जीवितंजीवित (२.१)
क्षिप्रम्क्षिप्रम् (अव्ययः)
अहंमद् (१.१)
त्यजेयंत्यजेयम् (√त्यज् विधिलिङ् उ.पु. )
विषेणविष (३.१)
शस्त्रेणशस्त्र (३.१)
शितेनशित (√शा + क्त, ३.१)
वापिवा (अव्ययः)–अपि (अव्ययः)
विषस्यविष (६.१)
दातादातृ (१.१)
(अव्ययः)
तुतु (अव्ययः)
मेमद् (६.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
कश्चिच्कश्चित् (१.१)
छस्त्रस्यशस्त्र (६.१)
वावा (अव्ययः)
वेश्मनिवेश्मन् (७.१)
राक्षसस्यराक्षस (६.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
सा जीवि तं क्षिप्र हंत्य जे यं
वि षे स्त्रेशि ते वापि
विस्य दा तातु मेऽस्तिश्चि
च्छ स्त्रस्य वा वेश्मनि राक्षस्य