५.२६.४

सुखाद्विहीनं बहुदुःखपूर्ण;मिदं तु नूनं हृदयं स्थिरं मे ।
विदीर्यते यन्न सहस्रधाद्य; वज्राहतं शृङ्गमिवाचलस्य ॥

अन्वयः

सुखात् of joy, विहीनम् devoid, बहुदुःखपूर्णम् filled with agony, इदम् this, मे my, हृदयम् heart, नूनम् surely, स्थिरम् hard, यत् such, वज्राहतम् hit by a thunderbolt, अचलस्य of a mountain, शृङ्गमिव like the top, सहस्रधा into a thousand pieces, अद्य now, न विशीर्यते it is not breaking.

M N Dutt

Forsooth, my mind, divested of happiness and full of misery, is firin or else why is it not broken in sunder like to the summit of a hill clapped by a thunderbolt.

Summary

"Even though I am devoid of joy, and living in deep agony, my heart bursts not into a thousand pieces like the summit of a mountain hit by thunderbolt (lightning).

पदच्छेदः

सुखाद्सुख (५.१)
विहीनंविहीन (√वि-हा + क्त, १.१)
बहुदुःखपूर्णम्बहु–दुःख–पूर्ण (१.१)
इदंइदम् (१.१)
तुतु (अव्ययः)
नूनंनूनम् (अव्ययः)
हृदयंहृदय (१.१)
स्थिरंस्थिर (१.१)
मेमद् (६.१)
विदीर्यतेविदीर्यते (√वि-दृ प्र.पु. एक.)
यन्नयद् (१.१)–न (अव्ययः)
सहस्रधाद्यसहस्रधा (अव्ययः)–अद्य (अव्ययः)
वज्राहतंवज्र–आहत (√आ-हन् + क्त, १.१)
शृङ्गम्शृङ्ग (१.१)
इवाचलस्यइव (अव्ययः)–अचल (६.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
सु खाद्वि ही नंहु दुः पूर्ण
मि दंतु नू नंहृ यंस्थि रं मे
वि दीर्य तेन्नस्र धाद्य
ज्रा तं शृङ्गमि वास्य