५.२८.१

हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः ।
सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम् ॥

अन्वयः

विक्रान्तः valiant hero, हनुमानपि Hanuman also, सीतायाश्च Sita's, त्रिजटायाश्च Trijata's, सर्वम् everything, राक्षसीनाम् shedemons, तर्जनम् threatening, तत्त्वतः in principle, शुश्राव heard.

M N Dutt

And the powerful Hanumān, heard from the beginning to the end (the bewailings) of Sitā, the story to Trijatā's dream and the threats of the Rākşasīs.

Summary

The valiant hero Hanuman heard everything including the lamentation of Sita and the dream of Trijata and the threats of the demonesses.

पदच्छेदः

हनुमान्हनुमन्त् (१.१)
अपिअपि (अव्ययः)
विक्रान्तःविक्रान्त (√वि-क्रम् + क्त, १.१)
सर्वंसर्व (२.१)
शुश्रावशुश्राव (√श्रु लिट् प्र.पु. एक.)
तत्त्वतःतत्त्व (५.१)
सीतायास्त्रिजटायाश्चसीता (६.१)–त्रिजटा (६.१)–च (अव्ययः)
राक्षसीनांराक्षसी (६.३)
(अव्ययः)
तर्जनम्तर्जन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नु मापि वि क्रा न्तः
र्वं शु श्रात्त्व तः
सी ता यास्त्रि टा याश्च
राक्ष सी नांर्ज नम्