५.२८.२८

संक्रुद्धस्तैस्तु परितो विधमन्रक्षसां बलम् ।
शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः ॥

अन्वयः

तैः by them, परितः around me, समृद्धः filled, रक्षसाम् of demons, बलम् power, विधमन् while subduing, महोदधेः great sea, परं पारम् to the other side, सम्प्राप्तुम् to reach, न शक्नुयाम् not be possib.le

M N Dutt

Being surrounded by them on all sides, If I do kill that host of demons, tired, I shall not be able to bound over the main.

Summary

"With them around me, I may not be able to reach the other end of the ocean (my strength spent in the combat.)

पदच्छेदः

संक्रुद्धस्तैस्तुसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)–तद् (३.३)–तु (अव्ययः)
परितोपरितस् (अव्ययः)
विधमन्विधमत् (√वि-धम् + शतृ, १.१)
रक्षसांरक्षस् (६.३)
बलम्बल (२.१)
शक्नुयांशक्नुयाम् (√शक् विधिलिङ् उ.पु. )
(अव्ययः)
तुतु (अव्ययः)
सम्प्राप्तुंसम्प्राप्तुम् (√सम्प्र-आप् + तुमुन्)
परंपर (२.१)
पारंपार (२.१)
महोदधेःमहत्–उदधि (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सं क्रु द्ध स्तैस्तुरि तो
वि न्रक्ष सां लम्
क्नु यंतु सं प्रा प्तुं
रं पा रं हो धेः