५.२८.३

यां कपीनां सहस्राणि सुबहून्ययुतानि च ।
दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया ॥

अन्वयः

कपीनाम् of vanaras, सुबहूनि many, सहस्राणि thousands, अयुतानि च १०,००० soldiers सर्वासु all over, दिक्षु in directions, याम् whom, मार्गन्ते are searching, सा इयम् that Sita here, मया by myself, आसादिता she is found.

M N Dutt

At length my watchful eyes have seen her, whom have been seeking in vain, the thousands and millions of the monkeys in all directions and quarters.

Summary

"This is Sita whom thousands of vanaras are searching in all directions.

पदच्छेदः

यांयद् (२.१)
कपीनांकपि (६.३)
सहस्राणिसहस्र (१.३)
सुबहून्ययुतानिसु (अव्ययः)–बहु (१.३)–अयुत (१.३)
(अव्ययः)
दिक्षुदिश् (७.३)
सर्वासुसर्व (७.३)
मार्गन्तेमार्गन्ते (√मार्ग् लट् प्र.पु. बहु.)
सेयम्तद् (१.१)–इदम् (१.१)
आसादिताआसादित (√आ-सादय् + क्त, १.१)
मयामद् (३.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

यां पी नां स्राणि
सु हून्ययु तानि
दिक्षु र्वासु मा र्ग न्ते
से मा सादि ता या