५.२८.३०

हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम् ।
विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम् ॥

अन्वयः

वा or, हिंसाभिरुचयः keen on indulging in violence, इमाम् this lady, जनकात्मजाम् daughter of Janaka, हिंस्युः harm her, ततः then, रामसुग्रीवयोः of Rama and Sugriva, इदम् this, कार्यम् mission, विपन्नं स्यात् will fail.

M N Dutt

Or the Rākşasas, pernicious as they are, shall kill the daughter of Janaka, and there shall the great work of Rāma and Sugrīva, be spoiled.

Summary

"These demons who are keen on indulging in violence will harm Janaka's daughter. Then the mission of Rama and Sugriva will also fail.

पदच्छेदः

हिंसाभिरुचयोहिंसा–अभिरुचि (१.३)
हिंस्युर्हिंस्युः (√हिंस् विधिलिङ् प्र.पु. बहु.)
इमांइदम् (२.१)
वावा (अव्ययः)
जनकात्मजाम्जनकात्मजा (२.१)
विपन्नंविपन्न (√वि-पद् + क्त, १.१)
स्यात्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
ततःततस् (अव्ययः)
कार्यंकार्य (१.१)
रामसुग्रीवयोर्राम–सुग्रीव (६.२)
इदम्इदम् (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

हिं साभिरु यो हिंस्यु
रि मां वा कात्म जाम्
वि न्नं स्यात्त तः का र्यं
रा सु ग्री योरि दम्