५.२८.३२

विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे ।
नान्यं पश्यामि रामस्य सहायं कार्यसाधने ॥

अन्वयः

मयि me, संयुगे in a battle, रक्षोभिः by ogres, विशस्ते वा if I am killed, गृहीते वा or captured, रामस्य of Rama, कार्यसाधने to accomplish the task, अन्यम् another, सहायम् help, न पश्यामि I do not see.

M N Dutt

If I am killed or captured by Rākşasas in battle, I do not find any who can help Rāma in his enterprise.

Summary

"If I am killed in the combat or captured by the demons, I do not see another person who can help in accomplishing this task.

पदच्छेदः

विशस्तेविशस्त (√वि-शंस् + क्त, ७.१)
वावा (अव्ययः)
गृहीतेगृहीत (√ग्रह् + क्त, ७.१)
वावा (अव्ययः)
रक्षोभिर्रक्षस् (३.३)
मयिमद् (७.१)
संयुगेसंयुग (७.१)
नान्यं (अव्ययः)–अन्य (२.१)
पश्यामिपश्यामि (√दृश् लट् उ.पु. )
रामस्यराम (६.१)
सहायंसहाय (२.१)
कार्यसाधनेकार्य–साधन (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि स्ते वागृ ही ते वा
क्षो भिर्मयि संयु गे
ना न्यं श्यामि रास्य
हा यं कार्य सा ने