५.२९.१०

विररामैवमुक्त्वासौ वाचं वानरपुंगवः ।
जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता ॥

अन्वयः

असौ he, वानरपुङ्गवः chief of the vanaras, एवम् in that way, वाचम् word, उक्त्वा having spoken, विरराम stopped, जानकी चापि even Janaki, तत् that, श्रुत्वा having heard, परम् great, विस्मयम् wonder, आगता felt.

Summary

Having spoken thus, the great vanara stopped speaking after that. Janaki was wonderstruck by the words of the vanara.

पदच्छेदः

विररामैवम्विरराम (√वि-रम् लिट् प्र.पु. एक.)–एवम् (अव्ययः)
उक्त्वासौउक्त्वा (√वच् + क्त्वा)–अदस् (१.१)
वाचंवाच् (२.१)
वानरपुंगवःवानर–पुंगव (१.१)
जानकीजानकी (१.१)
चापि (अव्ययः)–अपि (अव्ययः)
तच्छ्रुत्वातद् (२.१)–श्रुत्वा (√श्रु + क्त्वा)
विस्मयंविस्मय (२.१)
परमंपरम (२.१)
गतागत (√गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि रा मै मु क्त्वा सौ
वा चं वा पुं वः
जा की चापि च्छ्रु त्वा
विस्म यं मं ता