५.३०.७

मनोरथः स्यादिति चिन्तयामि; तथापि बुद्ध्या च वितर्कयामि ।
किं कारणं तस्य हि नास्ति रूपं; सुव्यक्तरूपश्च वदत्ययं माम् ॥

अन्वयः

मनोरथः desire, स्यात् may be, इति thus, चिन्तयामि I think, बुद्ध्या च thinking, तथा like that, वितर्कयामि I am deliberating, तस्य its, रूपम् form, नास्ति हि is not seen, अयम् this, सुव्यक्तरूपः seen in a manifested form, माम् by me, वदति speaks, कारणम् cause, किम् what?

M N Dutt

Methinks this is but a phantom of the mind. And thinking this I still behold the same. But an imaginary object can never have a form. And I still find a distinct form addressing me.

Summary

"I feel it is only the desire in my mind. Desire has no form. But the one who is addressing me has a form. I cannot understand this.

पदच्छेदः

मनोरथःमनोरथ (१.१)
स्याद्स्यात् (√अस् विधिलिङ् प्र.पु. एक.)
इतिइति (अव्ययः)
चिन्तयामिचिन्तयामि (√चिन्तय् लट् उ.पु. )
तथापितथा (अव्ययः)–अपि (अव्ययः)
बुद्ध्याबुद्धि (३.१)
(अव्ययः)
वितर्कयामिवितर्कयामि (√वि-तर्कय् लट् उ.पु. )
किं (१.१)
कारणंकारण (१.१)
तस्यतद् (६.१)
हिहि (अव्ययः)
नास्ति (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
रूपंरूप (१.१)
सुव्यक्तरूपश्चसु (अव्ययः)–व्यक्त–रूप (१.१)–च (अव्ययः)
वदत्ययंवदति (√वद् लट् प्र.पु. एक.)–इदम् (१.१)
माम्मद् (२.१)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०११
नो थः स्यादिति चिन्त यामि
थापि बु द्ध्याविर्क यामि
किं का णंस्यहि नास्ति रू पं
सु व्यक्त रूश्चत्य यं माम्