५.३१.१२

दुहिता जनकस्याहं वैदेहस्य महात्मनः ।
सीता च नाम नाम्नाहं भार्या रामस्य धीमतः ॥

अन्वयः

अहम् I am, वैदेहस्य Videha's, महात्मनः great soul, जनकस्य Janaka's, दुहिता daughter, नाम्ना सीतेति नाम Sita by name, अहम् I am, धीमतः of the sagacious, रामस्य Rama's, भार्या wife.

Summary

"I am daughter of the great soul, Janaka, king of Videha, known as Sita. I am the wife of that sagacious Rama.

पदच्छेदः

दुहितादुहितृ (१.१)
जनकस्याहंजनक (६.१)–मद् (१.१)
वैदेहस्यवैदेह (६.१)
महात्मनःमहात्मन् (६.१)
सीतासीता (१.१)
(अव्ययः)
नामनाम (अव्ययः)
नाम्नाहंनामन् (३.१)–मद् (१.१)
भार्याभार्या (१.१)
रामस्यराम (६.१)
धीमतःधीमत् (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दुहि ता स्या हं
वै देस्य हात्म नः
सी ता ना ना म्ना हं
भा र्या रास्य धी तः