५.३१.२३

साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी ।
न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥

अन्वयः

सा अहम् I myself, वनचारिणी a forestdweller, तूर्णम् quickly, तस्य his, अग्रतः ahead of him, प्रस्थिता started, तेन by him, हीनायाः separated, मे me, स्वर्गेऽपि न रोचते did not prefer even heaven.

M N Dutt

But myself wearing the garb of an ascetic, repaired speedily before him. Separated from him, I do not like to live even in the celestial region.

Summary

"I, however resolved to live in the forest, marched ahead of him quickly as I did not prefer even heaven without him.

पदच्छेदः

साहंतद् (१.१)–मद् (१.१)
तस्याग्रतस्तूर्णंतद् (६.१)–अग्रतस् (अव्ययः)–तूर्णम् (अव्ययः)
प्रस्थिताप्रस्थित (√प्र-स्था + क्त, १.३)
वनचारिणीवन–चारिन् (१.१)
(अव्ययः)
हिहि (अव्ययः)
मेमद् (६.१)
तेनतद् (३.१)
हीनायाहीन (√हा + क्त, ६.१)
वासःवास (१.१)
स्वर्गेस्वर्ग (७.१)
ऽपिअपि (अव्ययः)
रोचतेरोचते (√रुच् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

सा हं स्याग्र स्तू र्णं
प्रस्थि ता चारि णी
हि मे ते ही ना या
वा सः स्व र्गेऽपि रो ते