५.३२.११

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ।
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् ॥

अन्वयः

अनवद्याङ्गी who has flawless limbs, सा she, अशोकस्य Ashoka tree's, ताम् that, शाखाम् branch, विमुक्त्वा later leaving, शोककर्शिता emaciated out of sorrow, तस्याम् on that, धरण्यामेव on the ground, समुपाविशत् sat near.

M N Dutt

And leaving off the Asoka branch, that one having a blameless person, overwhelmed with grief, sat down on the earth.

Summary

So saying Sita of flawless limbs, emaciated with grief, left the branch of Ashoka tree held by her and squatted on the ground.

पदच्छेदः

ताम्तद् (२.१)
अशोकस्यअशोक (६.१)
शाखांशाखा (२.१)
सातद् (१.१)
विमुक्त्वाविमुक्त्वा (√वि-मुच् + ल्यप्)
शोककर्शिताशोक–कर्शित (√कर्शय् + क्त, १.१)
तस्याम्तद् (७.१)
एवानवद्याङ्गीएव (अव्ययः)–अनवद्य–अङ्ग (१.१)
धरण्यांधरणी (७.१)
समुपाविशत्समुपाविशत् (√समुप-विश् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ता शोस्य शा खां सा
वि मु क्त्वा शोर्शि ता
स्या मे वा द्या ङ्गी
ण्यांमु पावि शत्