५.३३.७५

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।
हनूमानिति विख्यातो लोके स्वेनैव कर्मणा ।
विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ॥

अन्वयः

मैथिलि Mythili, अहम् I, तस्य his, हरिणः monkey's, क्षेत्रे in the land, वातेन by the Windgod, जातः born, स्वेन कर्मणा एव by my own act, लोके by people, हनुमानिति Hanuman, विख्यातः came to be known.

Summary

"O Mythili I was born in that land retrieved by the Windgod. I am known as Hanuman by virtue of my own action.

पदच्छेदः

तस्याहंतद् (६.१)–मद् (१.१)
हरिणःहरिन् (६.१)
क्षेत्रेक्षेत्र (७.१)
जातोजात (√जन् + क्त, १.१)
वातेनवात (३.१)
मैथिलिमैथिली (८.१)
हनूमान्हनुमन्त् (१.१)
इतिइति (अव्ययः)
विख्यातोविख्यात (√वि-ख्या + क्त, १.१)
लोकेलोक (७.१)
स्वेनैवस्व (३.१)–एव (अव्ययः)
कर्मणाकर्मन् (३.१)
विश्वासार्थंविश्वास–अर्थ (२.१)
तुतु (अव्ययः)
वैदेहिवैदेही (८.१)
भर्तुर्भर्तृ (६.१)
उक्ताउक्त (√वच् + क्त, १.३)
मयामद् (३.१)
गुणाःगुण (१.३)

छन्दः

उपजातिः [११]

छन्दोविश्लेषणम्

१०१११२
स्या हंरि णः क्षे त्रे जा तो वा ते
मैथिलि नू मानिति वि ख्या तो
लो के स्वे नैर्म णा वि श्वा सा र्थं
तु वै देहिर्तु रु क्ता यागु णाः