५.३३.७६

एवं विश्वासिता सीता हेतुभिः शोककर्शिता ।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥

अन्वयः

शोककर्शिता tormented by grief, सीता Sita, एवम् in that way, हेतुभिः with possible reasons, विश्वासिता having trusted, उपपन्नैः by the evidences, अभिज्ञानैः with identification, तम् him, दूतम् as a messenger, अवगच्छति she understood.

Summary

The griefstricken Sita trusted him by his logical presentation of reasons as well as identifications. She believed that he was a messenger (of Rama).

पदच्छेदः

एवंएवम् (अव्ययः)
विश्वासिताविश्वासित (√वि-श्वासय् + क्त, १.१)
सीतासीता (१.१)
हेतुभिःहेतु (३.३)
शोककर्शिताशोक–कर्शित (√कर्शय् + क्त, १.१)
उपपन्नैर्उपपन्न (√उप-पद् + क्त, ३.३)
अभिज्ञानैर्अभिज्ञान (३.३)
दूतंदूत (२.१)
तम्तद् (२.१)
अवगच्छतिअवगच्छति (√अव-गम् लट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वं वि श्वासि ता सी ता
हेतु भिः शोर्शि ता
न्नै भि ज्ञा नै
र्दू तंच्छति