५.३४.२८

धर्मापदेशात्त्यजतश्च राज्यां; मां चाप्यरण्यं नयतः पदातिम् ।
नासीद्व्यथा यस्य न भीर्न शोकः; कच्चित्स धैर्यं हृदये करोति ॥

अन्वयः

धर्मापदेशात् for the cause of establishing righteousness, राज्यम् sovereignty, त्यजतः given up, मां चापि including me, पदातिम् on foot, अरण्यम् to the forest, नयतः conducted, यस्य whose, व्यथा agony, नासीत् not shown, भीः fear, न not, शोकः grief, न not, सः he, हृदये at heart, धैर्यम् courage, करोति कच्चित् will sustain I hope.

M N Dutt

Does he still hold patience in his heart, who, renouncing his kingdom for virtue and repairing, on foot with me even to the forest, was not stricken with fear and grief?

Summary

"Rama has given up sovereignty for the sake of establishing righteousness and led me into the forest on foot.He had not then felt any fear, anxiety or grief at heart.Rama showed patience, instead. Hope he retains them.

पदच्छेदः

धर्मापदेशात्धर्म–अपदेश (५.१)
त्यजतश्चत्यजत् (√त्यज् + शतृ, ६.१)–च (अव्ययः)
राज्यंराज्य (२.१)
मांमद् (२.१)
चाप्यरण्यं (अव्ययः)–अपि (अव्ययः)–अरण्य (२.१)
नयतःनयत् (√नी + शतृ, ६.१)
पदातिम्पदाति (२.१)
नासीद् (अव्ययः)–आसीत् (√अस् लङ् प्र.पु. एक.)
व्यथाव्यथा (१.१)
यस्ययद् (६.१)
(अव्ययः)
भीर्भी (१.१)
(अव्ययः)
शोकःशोक (१.१)
कच्चित्कश्चित् (२.१)
तद् (१.१)
धैर्यंधैर्य (२.१)
हृदयेहृदय (७.१)
करोतिकरोति (√कृ लट् प्र.पु. एक.)

छन्दः

इन्द्रवज्रा [११: ततजगग]

छन्दोविश्लेषणम्

१०११
र्मा दे शात्त्यश्च रा ज्यां
मां चाप्य ण्यं तः दा तिम्
ना सीद्व्य थास्य भीर्न शो कः
च्चित्स धै र्यंहृ ये रोति