५.३५.१६

चतुर्दशसहस्राणि राक्षसानां जघान यः ।
जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत् ॥

अन्वयः

यः whoever, जनस्थाने in Janasthana, विना भ्रात्रा without his brother also, राक्षसानाम् demons, चतुर्दशसहस्राणि fourteen thousand, जघान slew, तस्य his, कः who, शत्रुः enemy, नोद्विजेत् will not tremble.

M N Dutt

He brought about without his brother's aid, the destruction of the fourteen thousand Rākṣasas at Janasthāna. What enemy is not troubled at this?

पदच्छेदः

चतुर्दशसहस्राणिचतुर्दशन्–सहस्र (२.३)
राक्षसानांराक्षस (६.३)
जघानजघान (√हन् लिट् प्र.पु. एक.)
यःयद् (१.१)
जनस्थानेजनस्थान (७.१)
विनाविना (अव्ययः)
भ्रात्राभ्रातृ (३.१)
शत्रुःशत्रु (१.१)
कस्तस्य (१.१)–तद् (६.१)
नोद्विजेत् (अव्ययः)–उद्विजेत् (√उत्-विज् विधिलिङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तुर्द स्राणि
राक्ष सा नां घा यः
स्था नेवि ना भ्रा त्रा
त्रुः स्तस्य नोद्वि जेत्