५.३६.४५

अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ।
सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥

पदच्छेदः

अनुगच्छतिअनुगच्छति (√अनु-गम् लट् प्र.पु. एक.)
काकुत्स्थंकाकुत्स्थ (२.१)
भ्रातरंभ्रातृ (२.१)
पालयन्पालयत् (√पालय् + शतृ, १.१)
वनेवन (७.१)
सिंहस्कन्धोसिंह–स्कन्ध (१.१)
महाबाहुर्महत्–बाहु (१.१)
मनस्वीमनस्विन् (१.१)
प्रियदर्शनःप्रिय–दर्शन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

नुच्छति का कु त्स्थं
भ्रा रं पान्व ने
सिं स्क न्धो हा बाहु
र्म स्वीप्रिर्श नः