५.३६.४६

पितृवद्वर्तते रामे मातृवन्मां समाचरन् ।
ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥

पदच्छेदः

पितृवद्पितृ–वत् (अव्ययः)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
रामेराम (७.१)
मातृवन्मांमातृ–वत् (अव्ययः)–मद् (२.१)
समाचरन्समाचरत् (√समा-चर् + शतृ, १.१)
ह्रियमाणांह्रियमाण (√हृ + शानच्, २.१)
तदातदा (अव्ययः)
वीरोवीर (१.१)
(अव्ययः)
तुतु (अव्ययः)
मांमद् (२.१)
वेदवेद (√विद् लिट् प्र.पु. एक.)
लक्ष्मणःलक्ष्मण (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पितृ द्वर्त ते रा मे
मातृ न्मां मा रन्
ह्रि मा णां दा वी रो
तु मां वेक्ष्म णः