५.३९.१५

तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः ।
चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥

अन्वयः

तत् वनम् that garden, मथितैः with destroyed, वृक्षैः trees, भिन्नैः with breached, सलिलाशयैः ponds, चूर्णितैः powdered, पर्वताग्रैश्च mountain peaks, अप्रियदर्शनम् unpleasant appearance, बभूव remained.

Summary

That garden looked ugly with uprooted trees, breached ponds and powdered mountain peaks.

पदच्छेदः

तद्तद् (१.१)
वनंवन (१.१)
मथितैर्मथित (√मथ् + क्त, ३.३)
वृक्षैर्वृक्ष (३.३)
भिन्नैश्चभिन्न (√भिद् + क्त, ३.३)–च (अव्ययः)
सलिलाशयैःसलिलाशय (३.३)
चूर्णितैःचूर्णित (√चूर्णय् + क्त, ३.३)
पर्वताग्रैश्चपर्वत–अग्र (३.३)–च (अव्ययः)
बभूवाप्रियदर्शनम्बभूव (√भू लिट् प्र.पु. एक.)–अप्रिय–दर्शन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्व नंथि तै र्वृ क्षै
र्भि न्नैश्चलि ला यैः
चूर्णि तैःर्व ता ग्रैश्च
भू वाप्रिर्श नम्